Friday, November 23, 2007

विश्वशान्तेर्बाधक तत्त्वानि

विश्वशान्तेर्बाधक तत्त्वानिअत्र प्रथमं प्रश्नोsयमुपतिष्ठते यत् केयं विश्वशान्तिर्नाम? वस्तुतः सर्वेषां सम्मिलिताधिष्ठानभूतेsस्मिन विश्वे विद्यमानानां पदार्थानां अधिकतम सम्भवसीमानं यावद् अन्योन्यशिवसाधकतया विश्वशान्तितया अभिप्रेतं प्रतीयते । यदापीदं सहावस्थानं कथमपि समस्याः सम्मुखीकरोति, तदेवेयं विश्वशान्तिर्बाधितेति व्यपदिश्यते। पर्यावरण प्रदूषणम् जैवासन्तुलम्। हरितावास प्रभावः हरणानि सन्ति। परम् यदि अन्तर्मानवीय सन्दर्भा एवात्र गृह्येरन्(यथा अकथितं सदप्याभाति विषयाभिममतमिव) तर्हि इराकादिभूभागेषु प्रवर्तमानानि युद्धादीनि अहररो वर्धमान आतंकवादो मानसिकार्थिक सामाजिक्यः आततयश्चेत्यादीन्येव अत्रोदाहर्तु शक्यन्ते। इमानि सर्वाणि तु बाधितायामेव विश्वशान्तौ सन्ति। अधुना विचारणीयं भवति यत् कानि बवन्ति तत्तवानि तानि बाधमानानि विश्वशान्तिम् अथवा कानि स्युः कारणानि तद्विधानि,यैर्विश्वमेतद्धि शान्ति स्थाने युद्धातङ्काद्युपद्ववानेव साक्षात् कुर्वाणं भवति।
वस्तुतः एकस्य सीमा मर्यादा वा sन्येनातिक्रान्तेति यदाsनुभूयते तदैवोक्ति विधा विश्वशान्ति सन्दर्भाः समुद्भवन्ति। उक्ताsतिक्रान्तिः सन्दर्भाश्च तादृश्य असहिष्णुता-लोभ-भोगवादादिभिरेव दुर्वर्तन्ते मानवसमाजस्य प्रत्येकं स्तरे, परिवाररूपे प्रारम्भिकेsपि विश्वात्मके पार्यन्तिकेsपि च। वस्तुतः इमे असहिष्णुतादयः स्वयाथार्थ्यनवगत्या तज्जन्यया भेददृष्ट्यैव च संभवमापादयन्ति पुनः इदमप्यस्ति कथनीयं कारुरैरुक्तैः परिवाश्चैद विघटते समाजः, संसारोsपि च तथा भवितैवेत्यत्र न वर्तते कापि विप्रतिपत्तिः।
यथा बन्धुं भिन्नं गृह्णन् तमसमानश्च बन्धुः तद्वस्त्वपि गृह्यन्, तद्भागमपि बुभुक्षन् तं द्विषन् भवति। तथैव परिवारः परिवारम्, ग्रामो, ग्रामम्, देशश्च देशं प्रति असम्यगाचरन् द्वेषपरो भवति,अपरोsपि प्रतिकुर्वाणस्तं द्वेष्टि। इत्थं द्वेषपरम्परेयम् अशान्ति यपरपर्याया समाजे समुज्जृम्भते,ग्रसते च तं प्रत्येकं स्तरत एव।
नूनं सन्ति संयुक्तराष्ट्रादयो बृहदाकाराः संस्थाः विश्वे शान्तिकारिण्यः। परम्, एता अशान्तिविश्वात् सर्वथाsपनेतुं नैव सफलीभवन्ति। सा(अशान्तिः) एकत्र समाहिता चेद् दृश्यते, विस्फुटति भूयः। अस्य कारणमेतदस्ति यद् एतादृश्यः संस्था व्यवस्था वा मानव समाजस्य उपरितले दृश्मानानि समस्या लक्षणान्येव उपचरितं प्रयतन्ते, न समस्यायास्तस्याः मूलं मूलतोsभिझाय तदुच्छेत्तुं सर्वतः। वेद उपदिशति---
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः।
जाया पत्ये मधुमतीं वाचं वदतु शान्तिवाम्॥
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा
सम्यञ्च सव्रता भूत्वा वाचं वदत भद्रया॥

4 comments:

दिवाकर मिश्र said...

ब्लॉग परिवार के सदस्यों की ओर से नई सदस्या का हम स्वागत करते हैं । ब्लॉग साइट बना तो ली है पर इसका सार्थक और रचनात्मक उपयोग करें तो अच्छा होगा । अपने ब्लॉग पर अपने नए विचार या दूसरों के उद्धरण या अपनी रचनाएँ लिखें तथा दूसरों के भी ब्लॉग पढ़ें और उपयोगी टिप्पणी दें ।

दिवाकर मिश्र said...

gooD tHiS iS a gOoD pLaTfOrM tO eXpReSs YoUrSeLf

अर्चना said...

hi shashsi!
praveer here. i happened to know about ur blog so have just come here to see what lies inside. unfortunately, i m not so good in sanskrit, so m just wondering to get at the meaning of ur blogs content. and m sure i m not going that well into it. yet, i feel compulsive to leave my comment as it is something very scholarly( even if i dont know what it is!!!!!!).
so my comment is-"superb, excellent and all the superlatives of the qualifying words." keep it up.
byeeeeee

Sarvesh Kumar said...

hi mam..
aapki kavita ki last 2 line bahut hi achchee lagi ic tarah aap aur bhi likhiye jise ssare log padhen.........